शब्दकल्पद्रुमः
शीतकषायः || पुं, (शीतस्य कषायः ।) हिम- कषायः । यथा, — “क्षुण्णं द्रव्यफलं सम्यक् षडभिर्जलपलैः प्लुतम् । शर्व्वरीमुषितः स स्याद्धिमशीतकषायकः ॥”) इति वैद्यकम् ॥