वाचस्पत्यम्
शीतकाल || पु० ६ त० । हिमर्त्तौ मार्गग्रौषमासद्वयात्मके काले
शब्दकल्पद्रुमः
शीतकालः || पुं, (शीतस्य कालः ।)
हिम ऋतुः । स तु अग्रहायणपौषमासद्वयकालात्मकः । तत्- पर्य्यायः । शीतकः २ । इति मेदिनी ॥ हेमन्तः ३ । इत्यमरः ॥ सहाः ४ । इति जटाधरः ॥ हैमनः ५ । इति शब्दरत्नावली ॥ यथा, —
“कूपोदकं वटच्छाया श्यामा स्त्री इष्टकागृहम् । शीतकाले भवेदुष्णं उष्णकालेच शीतलम् ॥” इति चाणक्यम् ॥