वाचस्पत्यम्
शीतल || पु० शीतं लाति ला—क शीतमस्त्यस्य लच् वा । १ शी० तस्पर्शे २ तद्वति त्रि० । ३ मकयोद्भवे चन्दने न० ४ शैलेये- ५ पुष्पकासीसे च मेदि० । ६ पद्मके ७ मौक्तिके राजनि० । ८ वीरणमूले न० शब्दच० । ९ असनपर्स्याम् अमरः । १० ब हुवारवृक्षे ११ चत्पके १२ राले १३ चन्द्रे १४ कर्पूरे पु० राजनि० ।
शब्दकल्पद्रुमः
शीतलं || क्ली (शीतं लातीति । ला + कः ।)
पुष्प- कासीसम् । शैलजम् । मलयोद्भवम् । तत्तु चन्दनम् । इति मेदिनी ॥ पद्मकम् । मौक्तिकम् । इति राजनिर्घण्टः ॥ शैत्यम् । इति शब्दरत्ना- वली ॥ वीरणमूलम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
शीतलः || त्रि (शीतोऽस्यास्तीति । शीत + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
शीत- गुणविशिष्टः । तत्पर्य्यायः । सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५ शीतः ६ हिमः ७ । इत्यमरः ॥
शब्दकल्पद्रुमः
शीतलः || पुं, अशनपर्णी । इत्यमरः ॥ अर्हद्विशेषः । स तु चतुविंशतितीर्थङ्करमध्ये दशमतीर्थङ्करः । इति हेमचन्द्रः ॥ व्रतविशेषः । स तु मेष- संक्रान्त्यां कर्त्तव्यः । चन्द्रः । इति शब्दचन्द्रिका ॥ चम्पकः । कर्पूरभेदः । रालः । इति राज- निर्घण्टः ॥