वाचस्पत्यम्
शीतला || स्त्री १ देवीभेदे “नमामि शीतसां देवीं रासभस्यां दिगम्बरीम् । मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम्” स्कन्दपु० । सा च विस्फोटकभेदनाशिनी । २ जलजवृक्ष- भेदे रत्नमा० तत्र ङीप् । ३ कुटुम्बिनीवृक्षे ४ आरा- मशीतलायां ५ बालुकायां स्त्री राजनि० टाप् ।
शब्दकल्पद्रुमः
शीतला || स्त्री (शीतल + स्त्रियां टाप् ।)
शीतली- वृक्षः । यथा, —
“शीतला शीतली शीतकुम्भी पाण्डरपुष्पिका ।” इति शब्दचन्द्रिका ॥ देवीविशेषः । सा च वसन्तविस्फोटकादेरधि- ष्ठात्री देवता । यथा, — स्कन्द उवाच । “भगवन् देवदेवेश शीतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥ ईश्वर उवाच । नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् । मार्ज्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥ इति स्कन्दपुराणम् ॥ अस्या विवरणं मसूरिकाशब्दे द्रष्टव्यम् ॥ कुटु- म्बिनी । आरामशीतला । वालुका । इति राजनिर्घ ण्टः ॥