शब्दकल्पद्रुमः
शीतलाषष्ठी || स्त्री (शीतला षष्ठी ।)
माघशुक्ला षष्ठी । यथा, —
“प्रसूत्या द्वादशे मासि पूज्यापत्यविवृद्धये । सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥ वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता । आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी तथा ॥ भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा । नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी पौषे मास्यन्नरूपा च शीतला तपसि स्मृता । गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकी- र्त्तिता ॥” इति स्कन्दपुराणम् ॥