संस्कृत-शब्दकोशः

शीभव शीर

शीभ्य

शब्दकल्पद्रुमः

शीभ्यः || पुं, शीभ्यते प्रशंस्यते इति । शीभ + ण्यत् ।)
शिवः । वृषः इति केचित् ॥ (त्रि, आत्मश्लाघिभवः । जलप्रवाहभवः । क्षिप्रभवः । यथा, वाजसनेयसंहितायाम् । १६ । ३१ । “शीभ्याय च नम ऊर्म्माय ।” “शीभृ कत्थने शीभते कत्थते इति । शीभ आत्मश्लाघी पदाद्यच् । तत्र भवः शीभ्यः । शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र भवाय नमः ।” इति तट्टीकायां महीधरः ॥)



Correction: