वाचस्पत्यम्
शीर || पुंस्त्री० शी—रक् । अजगरसर्पे शब्दच० स्त्रियां ङीष ।
शब्दकल्पद्रुमः
शीरः is an alternate of सीरः. सी(शी)रः || पुं, (सिनोति सीयते इति वा । सि बन्धे + “शुसिचिमिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् । दीर्घश्च ।)
सूर्य्यः । इति मेदिनी ॥ अर्कवृक्षः । हलः । इत्यमरः । २ । ९ । १४ ॥ (यथा, मेघदूते । १६ । “सद्यः सीरोत्कर्षणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चात् व्रज लघुगतिः किञ्चिदेवोत्तरेण ॥”)
शब्दकल्पद्रुमः
शीरः || पुं, (शेते इति । शी + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।)
अजगरसर्पः । इति शब्दरत्नावली ॥