शब्दकल्पद्रुमः
शीर्षघाती || [न्] त्रि, (शीर्षं हन्तीति । हन + “कुमारशीर्षयोर्णिनिः ।” ३ । २ । ५१ । इति णिनिः ।) मस्तकच्छेदकः । शीर्षशब्दपूर्व्वक- हनधातोः कर्म्मभ्यां कुमारशीर्षाभ्यां हन इति मंक्षिप्तमारसूत्रेण णिनप्रत्ययेन निष्पन्नः ॥