वाचस्पत्यम्
शीर्षक || न० शीर्षे कायति कै—क । १ शिरस्त्राणे (टोपर) २ शिरोऽस्थ्नि राजनि० । ३ जयपराजयपत्त्रज्ञाप्यदण्डभेदे “शीर्षकस्थेऽभियोक्तरि” याज्ञ० स्मृतिः । स्वार्थे क । ४ मन्तके न० । तेन कायति कै—क । ५ राहुग्रहे शब्दर०
शब्दकल्पद्रुमः
शीर्षकं || क्ली (शीर्षे कं सुखमस्मात् ।)
शिरो- रक्षणसन्नाहः । टोप् इति भाषा । तत्- पर्य्यायः । शीर्षण्यम् २ शिरस्त्रम् ३ । इत्यमरः ॥ शिरोऽस्थि । इति राजनिर्घण्टः ॥ जयपराजय- पत्रम् । यथा, याज्ञवल्क्यः । “तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥” विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ॥ म- हाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्य चतुष्पादः जयपराजयलक्षणः । तेन दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड- भागीत्यर्थः । इति दिव्यतत्त्वम् ॥
शब्दकल्पद्रुमः
शीर्षकः || पुं, (शीर्षमिव । इवार्थे कन् ।)
राहु- ग्रहः । इति शब्दरत्नावली ॥ मस्तके, क्ली ॥