वाचस्पत्यम्
शील || अभ्यासे अतिशायने च अद० चु० उभ० सक० सेट् । शीलयति ते अशिशीलत् त ।
वाचस्पत्यम्
शील || न० शील—अच् । १ स्वभावे २ सद्वृत्ते मेदि० ३ चरित्रभेदे ४ अजगरसर्पे पुंस्त्री० शब्द च० स्त्रियां ङीष् । सद्वृत्तशीलञ्च त्रयादशविधं हारीतोक्तं यथा “ब्रह्मण्यता १ देवपितृभ- क्तता २ सौम्यता ३ अपरोपतापिता ४ अनसूयता ५ मृदुता ६ अपारुष्य ७ मैवता ८ पियवादिता ९ कृतज्ञता १० शरण्य- ता ११ कारुण्यता १२ शान्तिश्चेति १३ त्रयोदशविधं शीलम् । ४ रागद्वेषपरित्यागे मनुटी० गोविन्दराजः । ५ कौण्डि- न्यमुनिपत्न्यां स्त्री ।
वाचस्पत्यम्
शील || समाधौ भ्वा० पर० सक० सेट् । शीलति अशीलीत् । “सरमीः परिशीलितुं मया” नैवधम् । ममाधिरत्र मेवा तत्र सक० प्रवृत्तिभेदो वा तत्र अक० ञीत् वर्त्त- मानेक्त ।
शब्दकल्पद्रुमः
शील || क्ली (शीलयतीति । शीलत क अति- शायन + अच् । यद्वा शोङ् स्वप्ने + “शीङो धुक् लक् वलञ, वालनः ।” उणा० ४ । ३८ । इति लक् । अर्द्धर्च्चादित्वात् पुलिङ्गमपि ।)
स्वभावः । सद्वृत्तम् । इत्यमरमेदिन्यौ ॥ (यथा, रामा- यणे । २ । ३९ । २४ । “साध्वीनान्तुस्थितानान्तु शीले सत्य श्रुते स्थिते स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥”)
ब्रह्मण्यतादित्रयोदशविधधर्म्ममूलम् । रागद्वेष- वर्जनम् । यथा, —
“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्- विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव ॥” इति मानवे २ अध्यायः ॥ * ॥
शीलं ब्रह्मण्यतादिरूपम् । तदाह हारीतः । ब्रह्मण्यता देवपितृभक्तता सौम्यता अपरोप- तापिता अनसूयता मृदुता अपारुव्यं मैत्रता प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं प्रशान्तिश्चेति त्रयोदशविधं शीलम् । गोविन्द- राजस्तु । शीलं रागद्वे षपरित्याग इत्याह । इति तट्टीकायां कुक्कूकभट्टः ॥
शब्दकल्पद्रुमः
शील || ञि समाधौ । इति कविकल्पद्रुमः ॥ (म्वा० पर०-सक०-सेट् ।)
ञि, शीलितोऽस्ति । समाधिः सेवानुभावनं प्रवृत्तिर्व्वा । यः शीलति सदा धर्म्ममिति हलायुधः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शील || त् क अभ्यासे । अतिशायने । इति कवि- कल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अतिशायनं अतिशयकरणम् । तालव्यादि । अशिशीलत् । उपधारणे इत्यन्ये । शीलय नीलनिचोलमिति जयदेवः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शीलः || पुं, (शील अतिशायने + अच् ।)
अज- गरसर्पः । इति शब्दरत्नावली ॥ चरित्रम् । इत्यमरटीकायां नयनानन्दः ॥