शब्दकल्पद्रुमः
शीला || स्त्री (शीलमस्या अस्तीति । शील + अच् । टाप् ।) कौण्डिन्यमुनिपत्नी । यथा, — “मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे । ददर्श शीला सा स्त्रीणां समूहं रक्तवास- साम् ॥” इति तिथ्यादितत्त्वम् ॥