वाचस्पत्यम्
शुकनाशन || पु० शुकं नाशयति नश—णिच्—ल्यु । दद्रुघ्ने वृक्षे राजनि० ।
शब्दकल्पद्रुमः
शुकनाशनः || पुं, (शुकं नाशयतीति । नश + णिच् + ल्युः ।) दद्रुघ्नः । इति राजनिर्घण्टः ॥ शुक- नाशके, त्रि ॥