वाचस्पत्यम्
शुकनास || पु० शुकस्य नासेव पत्त्रमस्याः । श्योणाकवृक्षे अमरः । २ शुकतुल्यनासायुक्ते त्रि० । ३ कादम्बरीग्रन्थ- प्रसिद्धे तारापीडनृपमन्त्रिभेदे पु० ।
शब्दकल्पद्रुमः
शुकनासः || पुं, (शुकस्य नासेव फलं यस्य ।)
श्योणाकवृक्षः । इत्यमरः ॥ शुकवन्नासायुक्ते, त्रि ॥