वाचस्पत्यम्
शुक्ति || स्त्री शुच—क्तिन् । १ जलजन्तुभेदे (झिनुक) राजनि० २ कपालखण्डे ३ शङ्खे ४ शङ्खनखे ५ नख्याम् ६ अर्शोरोगे ७ अश्वावर्त्तके मेदि० । ८ नेत्ररोगभेदे हेमच० । चक्षूरोग- शब्दे २८४४ पृ० दृश्यम् । ९ कर्षद्वयपरिमाणे शब्दमा० १० चतुष्कर्षमाने वैद्यकम् ।
शब्दकल्पद्रुमः
शुक्तिः || स्त्री (शुच् + क्तिन् ।)
जलजन्तुविशेषः । झिनुक् इति भाषा । तत्पर्य्यायः । मुक्ता- स्फोटः २ । इत्यमरः ॥ शुक्तिका ३ । इति जटाधरः ॥ मुक्तिप्रसूः ४ महाशुक्तिः ५ तौतिकः ६ मौक्तिकप्रसवा ७ मौक्तिकशुक्तिः ८ मुक्तामाता ९ । अस्या गुणाः । कटुत्वम् । स्निग्धत्वम् । श्वासहृद्ग्रहनाशित्वम् । शूल- प्रशमनत्वम् । रुच्यत्वम् । मधुरत्वम् । दीप- नत्वञ्च । इति राजनिर्घ ण्टः ॥ कपालखण्डम् । शङ्खः । शङ्खनखः । नखी । अश्वावर्त्तः । अर्शोरोगः । इति मेदिनी ॥ चक्षूरोगविशेषः । इति हेमचन्द्रः ॥ तद्विवरणं यथा, —
“प्रस्तारिशुक्लक्षतजोऽधिमांस- स्राग्वर्म्मसंज्ञाः खलु पञ्च रोगाः । स्याच्छक्तिका सार्ज्जुनपिष्टकाख्या जालं शिराणां पिडिकाश्च तासाम् ॥ रोगा वलासग्रथितेन सार्द्ध- मेकादशोक्ताः खलु शुक्रभागे ॥” शुक्तिमाह । “श्यावाः स्युः पिशितनिभाश्च बिन्दवोऽयं शुक्लाभाः शितनिचिताः स शुक्तिसंज्ञः ।” श्यावा इत्यादि वर्णत्रयविकल्पो बोद्धव्यः ॥ * ॥
अथास्याश्चिकित्सा । “सेक आश्चोतनं पिण्डीविडालस्तपंणं तथा । पुटपाकोऽञ्जनं चैभिः कल्पैर्नेत्रमुपाचरेत् ॥” इति कल्पविधिः ॥ तत्र सेकविधिर्यथा, —
“सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे । सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ॥ मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलम् एरण्डदलमूलत्वक्शृतमाजं पयो हितम् । सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनम् १ ॥ यष्टीगैरिकसिन्धूत्थदार्व्वीतार्क्षैः समांसकैः । जलपिष्टैर्वहिर्लेपः सर्व्वनेत्रामयापहः ॥” २ ॥ इति भावप्रकाशः ॥ * ॥
कर्षद्वयपरिमाणम् । इति शब्दमाला ॥ चतु- स्तोलकपरिमाणम् । तत्पर्य्यायः । अष्टमिका २ । इति वैद्यकपरिभाषा ॥