संस्कृत-शब्दकोशः

शुक्तिमत् शुक्रकर

शुक्र

वाचस्पत्यम्

शुक्र ||‍ न० शुच—रक् नि० कुत्वम् । १ मज्जजाते २ चरमधातौ अमरः । ३ नेत्ररोगभेदे २८४४ पृ० दृश्यम् । ५ दैत्यगुरौ ग्रहभेदे अमरः । ६ अग्नौ ७ चित्रकवृक्षे ८ ज्यैष्ठमासे अमरः विष्कम्भादिषु योगेष मध्ये ९ चतुर्विंशे योगे च पु० ज्यो० त० । धातुभेदशुक्रस्योत्पत्तिकारणस्वरूपादिकं भावप्र० उक्तं यथा “रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः” । “ततः स्थूलो भागो रसो मासेनं पुंसां शुक्रं स्त्रीणा- ञ्चार्त्तवं शुक्रञ्च भवति । उक्तञ्च सुश्रुते “एवं मासेन रसः शुक्रो भवति” ‘स्त्रीणाञ्चेति’ । चकारात् स्त्रीणा- मपि शुक्रं भवति । अतएवोक्तं सुश्रुते “योषितोऽपि स्नवत्येव शुक्रं पुंसः समागमे । तत्र गर्भस्य किञ्चित्तु करोतीति न चिन्त्यते” । गभस्य शुद्धस्य विकृतस्य तु गर्मस्य कारणं तदपि भवति । यत उक्तम् “यदा ना- र्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन । मुञ्चन्त्यो शुक्रमन्यो- ऽन्यमनस्थि तत्र जायते” इति । एतेन स्त्रीणां सप्तमो धातुरार्त्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत् । “स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम् । तासा- मपि बले वर्णं शुक्रं पुष्टिं करोति हि” । एवं रस एव केदारकुल्यान्यायेन सर्वान् धातून् पूरवन् मासेन नवदण्डोत्तरेण शुक्रमार्त्तवं च भवतीति सिद्धान्तः । एवं सति साद्रक्तमिति सङ्गतमेव । ततो मांसन्ततो रक्तो- त्पत्तेरनन्तरं मांसं जायते रसादेवेत्यर्थः । मांसान्मेदः प्रजायत इति । मांसादनन्तरं मेदः प्रजायते रसादेवे- त्यर्थः । मेदसोऽस्थि जायते रसादेवेत्यर्थः । एवं ततो मज्जा अग्रे शुद्धं शुक्रं सम्भवतीत्यर्थः । रसः शरीरे त्रिधा सञ्चरति । तथा चोक्तम् “रसः शरीरे शब्दा- र्चिर्जलसन्तानवत् त्रिधा । सञ्चरत्यनुरूपोऽयं नित्यमेव हि देहिनाम्” । अस्यायमभिप्रायः । पुरुषास्तीक्ष्णाग्नयो मध्यमाग्नयो मन्दाग्नयश्च भवन्ति । तत्र तीक्ष्णाग्नीनां स रसः शब्दसन्तानवत् शीघ्रं सञ्चरति । मध्यमाग्नीना- मर्चिःसन्तानवन्मघ्यवेगेन चरति मन्दाग्नीनां जल- सन्तानवन्मन्दं चरति । तेन मासेन रसः शुक्रं भव- तीति यदुक्तम् तन्मध्यवगेन चरति । मन्दाग्नीनां जलमन्तानवन्मन्द चरति । तेन मासेन रसः शुक्रं” भवतीति रदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तम् । दीप्ताग्नीनान्तु रसः किञ्चिन्थ्नेन मासेन शुक्रं भवति । मन्दाग्नेः किञ्चिद० केन मासेनेनि सिद्धान्तः । तर्हि वाजीकरणानामोष- धीनां किं प्रयोजनमित्याह “वाजीकरिण्य आषध्यः स्वप्रभावगुणोच्छ्रयात् । विरेचवन्ति ताः शुक्रं विरे- किद्रव्यवन्नृणाम्” । वाजीकरिण्यः याभिः ओषधीभिः पुरुषः शुक्राधिक्यात् स्त्रोषु वाजिवत् सामर्य्यं प्राप्नोति ताः वाजीकरिण्यः स्वप्रभावगुणोच्छ्रयात् । तत्र काश्चि- दीषध्यः स्वप्रभावाधिक्यात्, काश्चित् स्वगुणाधिक्यात्, काश्चित् स्वप्रभावगुणाधिक्यात् । तत्र सङ्कल्पपादलेप- विशिष्टकान्तास्पर्शादयः स्वप्रभावाधिक्यात् शुक्रं विरे- चयन्ति । घृतक्षीरादयः स्वगुणाधिक्यात् । स्निग्ध- त्वाधिक्यात् माषादयः स्वप्रभावस्निग्धत्वादिगुणाधि- क्यात् । वाजीकरण्य इति बहुवचनमाद्यार्थानुवर्त्तनम् । बल्यं वृंहणं जीवनीयगणादयः तद्वद्बाद्धव्याः । विरे- चयन्ति स्वप्रभावगुणाविक्यात् शीघ्रमेवं रसाद्युत्पाद- नपूर्वकं शुक्रं जनयित्वा प्रवर्त्तयन्ति । यत आह “दुग्धं माषाश्च भल्लातफलमज्जामलानि च । जनकानि निग- द्यन्ते रेचनानि च रेतसः” । ननु वालानां कथं शुस्तं न दृश्यते इत्यत आह “बालानां शुक्रमस्त्येव किन्तु सौ- क्ष्म्यान्न दृश्यते । पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते । तेषां यदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि । कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्या- दयः पुंसां नारीणामपि यौवने । जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च” । व्याख्यानं यथा पुंसां रोनोराजीश्मश्रुप्रभृतयः नारीणान्तु रीमराजीस्तन- स्तन्यार्त्तवप्रभृतयः । ननु, अन्नरसो वृद्धस्य धातुवृद्धिं कथं न करोतीत्याह “वार्द्धके वर्द्धमानेन वायुना रस- शोषणात् । न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत्” । अथ शुक्रस्य स्वरूपमाह “शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् । गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः” । जीवस्याश्रय उत्तम इत्याह “जीवी वसति सर्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात्” । अथ गर्भसञ्जननशुक्रस्य लक्षणमाह “स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च । शुक्रमिच्छन्ति केचित्तु तैलक्षीरनिभञ्च तत्” । अथ शुक्रस्य स्थानमाह “यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा । एवं हि सकले काये शुक्रं तिष्ठति देहिनाम्” । अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिःशुक्रयोर्ला- भात् । इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे पुंसि अतिपीड- नेनेक्षुरसशुक्रयोर्लाभात् । अथ शुक्रस्य क्षरणमार्ग- माह “द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः । मूत्रस्रोतपथे शुक्रं पुरुषस्य प्रवर्त्तते” । वृद्धवाग्भटो- ऽप्याह “सप्तमी शुक्रधरा द्व्यङ्गुले दक्षिणे पार्श्वे वस्ति- द्वारस्य चाप्यधोमूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्त्तयतीति । सप्तमी कला । अथ शुक्रक्षरण- कारणमाह “कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा । स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते” । स्त्रीसु- रतरूपं व्यायामं कुर्वतः । अन्यच्च “शुक्रं कामेन का- मिन्या दर्शनात् स्पर्शनादपि । शब्दसंश्रवणातु ध्यानात् संयीगाच्च प्रवर्त्तते” । दैत्यगुरोः शुक्रनामकारणं काशीख० १७ अ० उक्तं यथा “नन्दिनाऽपहृते शुक्रे गिलिते च विषादिना” इत्युपक्रमे “तेन शब्देन महता शुक्रः शम्भूदरे स्थितः । छिद्रा- न्वेषी भ्रमन् सोऽथ विनिकेतो यथानिशम् । सप्त लोकान् सपातालान् रुद्रदेहे विलोकयन् । ब्रह्मनारायणे- न्द्राणां सादित्याप्सरसां तथा । भुवनानि विचित्राणि युद्धञ्च प्रमथासुरम् । सवर्षाणां शतं कुक्षौ” भवस्य प- रितो भ्रमन् । ततः स ददृशे रन्ध्रं शुचेरन्ध्रं खलो यथा । शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । चस्कन्द च सनामापि ततो देवेन भाषितः । जठरान्नि- र्गते शुक्रे देवोऽपि मुमुदेतराम् । मूयः श्रेयो भवेद् यन्मे न स्थितो जठरे द्विजः । शुक्रवन्निःसृतो यस्मा- त्तस्मात्त्वं भृगुवन्दन । कर्मणानेन शुक्रोऽपि मम पुत्रो- ऽसि गम्यताम्” । शुक्रग्रहस्वरूपादि वृहज्जातके ग्रहयोन्यध्याये उक्त दृश्यम् । तत्कक्षादिमानं खगोलशब्दे २४२५ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

शुक्रं || क्ली (शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।” उणा० २ । २८ । इति रन्प्रत्ययेन साधु ।)
मज्जजातधातुः । तत्पर्य्यायः । पुंस्त्वम् २ रेतः ३ बीजम् ४ वीर्य्यम् ५ पौरुषम् ६ तेजः ७ इन्द्रि- यम् ८ अन्नविकारः ९ मज्जारसः १० रोह- णम् ११ बलम् १२ । इति राजनिर्घ ण्टः ॥ तस्योत्पत्तिर्यथा, —
“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः ॥ तस्य स्वरूपं यथा, —
“शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् । गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः ॥” जीवस्याश्रय उत्तम इति । यत आह । “जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् ॥” * ॥
गर्भसंजननशुक्रस्य लक्षणं यथा, —
“स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च । शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत् ॥” तस्य स्थानमाह । “यथा पयमि सर्पिस्तु गूढश्चेक्षौ रमो यथा । एवं हि मकले काये शुक्रं तिष्ठति देहिनाम् ॥” अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिः- शुक्रयोर्लाभात् । इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे पु सि अतिपीडनेनेक्षुरसशुक्रयोर्लाभात् ॥ * ॥
तस्य क्षरणमार्गो यथा, —
“द्व्यङ्गले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्पधः । मूत्रस्रोतःपथे शुक्रं पुरुषस्य प्रवर्त्तते ॥” * ॥
अथ शुक्रस्य क्षरणकारणमाह । “कृत्स्रदेहस्थितं शक्रं प्रसन्नमनसस्तथा । स्त्रीषु व्याययुतश्चापि हर्षात्तत् संप्रवत्तते ॥” स्त्रीषु व्याययुतः सुरतरूपं व्यायामं कुर्व्वतः । अन्यच्च । “शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि । शब्दसंश्रवणात् ध्यानात् संभोगाच्च प्रवर्त्तते ॥” इति भावप्रकाशः ॥ * ॥
शुक्रक्षयकरद्रव्याणि यथा । सार्षपतैलम् १ राज- माषः २ तिलः ३ पटोलवास्तूककाकमाचीपुन- र्नवाशाकभिन्नसर्व्वशाकम् ४ तावदम्लद्रव्यम् ५ कारवेल्लकफलम् ६ कर्कोटकफलम् ७ वादा- मम् ८ लिकुचम् ९ शुष्कमरिचम् १० गुड- त्वक् ११ पिप्पलीशण्ठीभिन्नकटुरसः १२ । इति राजवल्लभात् संगृहीतम् ॥ * ॥
अपि च । “वोजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् । वर्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम् ॥ कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् । मूत्रान्ते मूत्रवद्बीजक्षयकारि विवर्ज्जयेत् ॥” शुक्रवृद्धिकरजल यथा, —
“ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः । शुक्रवृद्धिकरं तोयं तत्तु पेयं प्रयत्नतः ॥” इति कालिकापुराणे ८९ अध्यायः ॥ * ॥
शुक्रवर्द्धकद्रव्याणि यथा । पानीयम् १ विशेषतः हैमन्तिकजलम् २ तालाम्बु ३ चन्दनादिद्रव्यानु- लेपनम् ४ रक्तशालिधान्यम् ५ हैमन्तिकषष्टि- कधान्यम् ६ गोधूमः ७ माषः ८ सामान्यशुष्क- नारीचपत्रशाकम् ९ सामान्यक्लिन्नशुष्कनारीच पत्रशाकजलम् १० कलम्बीशाकम् ११ काक- माचीशाकम् १२ गोक्षुरशाकम् १३ मुञ्जा- तकः १४ वार्त्ताकुः १५ विदारी १६ हस्त्या- लुकम् १७ मध्वालुकम् १८ पक्वाम्रम् १९ दुग्धाम्रम् २० नागरङ्गम् २१ बहुवारफलम् २२ पक्वकण्टाफलम् २३ कण्टाफलास्थि २४ पक्व- तालम् २५ पक्वकदलम् २६ चम्पककदलम् २७ द्राक्षा २८ खर्ज्जूरम् २९ धात्री ३० कुष्माण्ड- मज्जा ३१ तावन्मत्स्याः ३२ वृहन्मत्स्यः ३३ समुद्रमत्स्यः ३४ रोहितमत्स्यः ३५ भाकूट- मत्स्यः ३६ पाठीनमत्स्यः ३७ भेगलिमत्स्यः ३८ चित्रफलमत्स्यः २९ वाउशमत्स्यः ४० मद्गुर- मत्स्यः ४१ वर्म्मिमत्स्यः ४२ फलीमत्स्यः ४३ चिङ्गटमत्स्यः ४४ पर्व्वतमत्स्यः ४५ एलङ्गमत्स्यः ४६ शकलीमत्स्यः ४७ चम्पकुन्दमत्स्यः ४८ प्रोष्ठी- मत्स्यः ४९ दग्धमत्स्यः ५० सामान्यमांसम् ५१ प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप- मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६ छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म- मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट- कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४ शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७ मद्गु-६८ कादम्ब-६९ वलाका-७० वक- मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३ गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर- सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८ दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१ तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त- निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५ अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु- गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क- पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु- नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७ सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त- पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवा रपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९ शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१ परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु- मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६ एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य- वला १०९ विशेषतः पीतवला ११० अश्वगन्धा १११ प्रसारणी ११२ माषपर्णी ११३ रुदन्ती वृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः ११६ । इति राजवल्लभात् सगृहीतम् ॥ * ॥
नेत्ररोगविशेषः । इति मेदिनी ॥ अस्य विवरणं शुक्लशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

शुक्रः || पुं, (शुच + रन् ।)
ग्रहविशेषः । तत्पर्य्यायः दैत्यगुरुः २ काव्यः ३ उशनाः ४ भार्गवः ५ कविः ६ । इत्यमरः ॥ सितः ७ आस्फुजित् ८ शतपर्व्वेशः ९ भृगुसुतः १० भृगुः ११ षोड- शार्च्चिः १२ मघाभूः १३ श्वेतः १४ श्वेतरथः १५ इति शब्दरत्नावली ॥ षोडशांशुः १६ । इति जटाधरः ॥ * ॥
तस्य शुक्रेति नामकारणं यथा, —
“निकुम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ । युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥ महादेव वचोऽसह्यं शृणु त्वं परमाद्भूतम् । अविचिन्त्यमसह्यञ्च मृतानां जीवनं पुनः ॥ ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे । ते सर्व्वे जीविता भूयो भार्गवेणाथ विद्यया ॥ तदिदं वै महादेव महत् कर्म्म कृतं रणे । संजातमफलं देव शुक्रविद्याबलाश्रयात् ॥ इत्येवमुक्ते वचने नन्दिना कुलनन्दिना । प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् । गच्छ शुक्रं गणपते ममान्तिकमुपानय ॥ अहं तं संयतिष्यामि यथायोगं समेत्यति ॥ इत्येवमुक्ते रुद्रेण नन्दी गणपतिस्ततः ॥ तमनन्तमुपागम्य नन्दी संपूज्य वेगवान् ॥ रथाद्भार्गवमानिन्ये सिंहः क्षुद्रमृगं यथा । तमादाय हराभ्यासमाजगाम विनायकः ॥ निपात्य रक्षिणः सर्व्वानथ शुक्रं न्यवेदयत् । तमानीतं कविं शर्व्वः प्राक्षिपद्वदने प्रभुः ॥ स शम्भुना कविश्रेष्ठो ग्रस्तो जठरमास्थितः । तुष्टाव भगवन्तं तं वाग्मी वाग्भिरथादरात् ॥ शुक्र उवाच । नमोऽस्तु ते शङ्कर शर्व्व शम्भो सहस्रनेत्राङ्घिशिरो नमस्ते । दृष्ट्वैव सर्व्वं भुवनं तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः ॥ इत्येवमुक्ते वचने महात्मा शम्भुर्व्वचः प्राह ततो विहस्य । निर्गच्छ पुत्त्रोऽसि ममाधुना त्वं शिश्नेन भो भार्गशवंशचन्द्रः ॥ नाम्ना तु शुक्रेति चराचरास्त्वां स्तोष्यन्ति नैवात्र विचारणास्ति । इत्येवमुक्त्वा भगवान् मुमोच शिश्नेन शुक्रः स च निर्जगाम ॥ विनिर्गतो भार्गववंशचन्द्रः शुक्रत्वमापद्य महानुभावः ॥” इति वामने ६६ अध्यायः ॥ * ॥
अयं श्यामवर्णाग्निकोणस्त्रीब्राह्मणजातियजु- र्व्वेदरजोगुणाम्लरसवृषराशिहीरकरत्नभोजकट- देशानामधिपतिः । भृगुमुनिसन्तानः । नवा- ङ्गुलशरीरः । पद्मस्थः । सूर्य्यमुखः । श्वेतवर्णः । चतुर्भुजः । सदाजपमालावरकमण्डलुदण्ड- धारी । शुक्लवस्त्रः । इन्द्रादिदेवताकः । शची- प्रत्यधिदेवताकः । शुभग्रहः । अपराह्णकाले प्रबलः । जलचारी । कफप्रकृतिः । रूप्यद्रव्य- धान्यादिस्वामी । मध्यवयः । रतीश्वरः । जल- भूमिचारी । स्निग्धरुचिः । द्विपदमनुष्याणां स्वामी च । इति बृहज्जातकग्रहयागतत्त्वा- दयः ॥ * ॥
तस्य भोग्यं दिनं शुक्रवारः । तत्र जातफलम् । “प्रसन्नचित्तो मतिमान् गुणज्ञः सुकेशवेशः सितवस्त्रमाल्यः । बन्धुप्रियो भार्गववारजातः शीघ्रप्रसादः कुशलो नरः स्यात् ॥” तस्य क्षेत्रजातफलम् । “शुक्रालये काव्यकलाविदग्धो दातातिथेयः श्रुतशास्त्रदक्षः । कलिप्रियो वातकफान्वितः स्या- न्मेधान्वितो हास्यपटुर्मदाद्यः ॥” तस्य द्रीक्काणजातफलम् । “द्रेक्काणे भृगुनन्दनस्य सुतनुः पात्रं धरित्री- पतेः सर्व्वज्ञः स्वजनानुरागकुशलो दाता सतां वल्लभ संपूणश्च वराङ्गनात्मजधनैः स्फीतः कृपालुः शुचिः शान्तः सत्यरतोऽभियुक्तहृदयो धर्म्मानुरक्तो नरः ॥” तस्य नवांशजातफलम् । “नारीरक्तो ललितनयनो मञ्जुकेशः कृशाङ्गः कम्बुग्रीवो भवति कनकश्यामवर्णः सुकेशः । क्रू रः स्त्रैणः कविरतिधनो दानशीलो गुणज्ञो व्यानम्रास्यो विमलयशसा मानवो भार्गवांशे ॥” तस्य द्वादशांशजातफलम् । “शूरो बहुधनो भोगो नृत्यगीतप्रियः सदा । शुचिर्द्दाता क्षमी भोक्ता द्वादशांशे भृगोनरः ॥” तस्य त्रिंशांशजातफलम् । “बहुगुणपरिपूर्णः सुन्दरश्चारुदृष्टि- र्युवतिजनविनोदी लब्धसौख्यार्थभोगः । द्विजसुरगुरुभक्तो दानशीलः कृपालु- रसुरपतिगुरोः स्यान्मानवस्त्रिं शकांशे ॥” इति कोष्ठीप्रदीपः ॥ विष्कुम्भादि-सप्तविंशति-योगान्तर्गत-चतुर्विंश- योगः । तत्र जातफलम् । “हास्यो विवादे विजयी सभायां मद्गन्धमाल्याम्बररत्नयुक्तः । जितेन्द्रियः स्यान्मनुजो महौजाः शुक्राभिधाने जननं हि यस्य ॥” इति कोष्ठीप्रदीपः ॥ * ॥
अग्निः । चित्रकवृक्षः । ज्यैष्ठमासः । इत्यमरः ।



Correction: