वाचस्पत्यम्
शुक्लधातु || पु० कर्म० । कठिन्यां (खडि) हेमच० २ श्वेतधातौ च
शब्दकल्पद्रुमः
शुक्लधातुः || पुं, (शुक्लः शुक्लवर्णो धातुः ।) कठिनी । इति हेमचन्द्रः ॥ श्वेतवर्णधातुद्रव्यञ्च ॥