वाचस्पत्यम्
शुन || गतौ तु० पर० सक० सेट् । शुनति अशोनीत् ।
वाचस्पत्यम्
शुन || पु० शुन—क । कुक्कुरे । कि । तत्रैव वाचस्पतिः ।
शब्दकल्पद्रुमः
शुनः || पुं, (शुनति सदा इतस्ततो गच्छतीति । शुन + कः ।)
कुक्कुरः । यथा, —
“कुक्कु रस्तु शुनिः श्वानः कपिलो मण्डलः शुनः ॥” इत्यमरटीकायां भरतधृतवाचस्पतिः ॥ (शुनति क्षिप्रं गच्छतीति । कः । वायुः । इति निघण्टु टीकायां देवराजयज्वा ॥ ५ । ३ । ३४ । क्ली, सुखम् । इति ऋग्वेदभाष्ये सायणः । ४ । ५७ । ९ ॥)
शब्दकल्पद्रुमः
शुन || श गत्याम् । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
श, शुननि । शोनिता । इति दुर्गादासः ॥