वाचस्पत्यम्
शुनक || पु० शुनैव कन् । १ मुनिभेदे स्वार्थे क । २ कुक्कुरे राजनि० ।
शब्दकल्पद्रुमः
शुनकः || पुं, (शुनति इतस्ततो गच्छतीति । शुन गतौ + “क्वुन् शिल्पिसज्ञयोरपूर्व्व स्यापि ।” उणा० २ । ३२ । इति क्वुन् । कुक्कुरः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १३ । १२७ । १६ । “भिन्नभाण्डञ्च खट्वाञ्च कुक्कुटं शुनकं तथा । अप्रशस्तानि सर्व्वाणि यश्च वृक्षो गृहेरुहः ॥” ऋषिविशेषः । यथा, महाभारते । २ । ४ । १० । “असितो देवलः सत्यः शर्पमाली महाशिराः । अर्कावसुः सुमित्रश्चमैत्रेयः शुनको बलिः ॥”)