वाचस्पत्यम्
शुन्भ || दीप्तौ अक० मर्दने सक० तु० पर० सेट् । शुभति अशुभम्भीत् “प्रागप्राप्तनिशुम्भशाम्भवधनु” रिति वी० च०
शब्दकल्पद्रुमः
शुन्भ || श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-अक०-हिंसने सक०-सेट् ।)
श, शुभति शुम्भति । शुशोभ शुशुम्भ । इति दुर्गा- दासः ॥