संस्कृत-शब्दकोशः

शुन्भ शुभ

शुन्य

वाचस्पत्यम्

शुन्य ||‍ न० शुनीनां समूहः यत् । १ कुक्कुरीसंके त्रिका० शून्य + पृषो० । २ रिक्ते जटा० ।


शब्दकल्पद्रुमः

शुन्यं || क्ली शुनीसमूहः । इति त्रिकाण्डशेषः ॥ रिक्ते, त्रि । इति जटाधरः ॥ (यथा, साहित्य- दर्पणे ३ परिच्छेदे । “शुन्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चित् शनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्बर्ण्य पत्यु- र्मुखम् ॥” शुने हितम् । श्वन् + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । “शुनः सम्प्रसारणं वा च दीर्घत्वम् ।” इत्युक्त्या सम्प्रसारणम् ॥)



Correction: