वाचस्पत्यम्
शुभ || दीप्तौ अक० हिंसने सक० तु० मुचा० पर० सेट् । शुम्भति अशीभीत् ।
वाचस्पत्यम्
शुभ || दीप्तौ भ्वा० आ० अक० सेट् । शोभते ऌदित् अशुभत् शुशुभे
वाचस्पत्यम्
शुभ || न० शुभ—क । १ मङ्गले २ शुभयुक्ते त्रि० अमरः । २ पन्न- काष्ठे राजनि० ४ विष्कम्भादिषु मध्ये त्रयोविं शयोगे पु० ५ स्वेचरपुरभेदे न० मेदि० ।
शब्दकल्पद्रुमः
शुभ || ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
ऌ, अशुभत् । ङ, शोभते । न शोभति सभामध्ये इति गणकृता- नित्यत्वादिति रमानाथः । वस्तुतस्तु शोभते शोभः पचादित्वादन् । ततः शोभ इवाचरतीति क्वौ साध्यम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शुभं || क्ली (शोभते इति । शुभ दीप्तौ + कः ।)
मङ्गलम् । इत्यमरः ॥ (यथा, कथासरित्सागरे । १२४ । ११२ । “अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ॥” पद्मकाष्ठम् । इति राजनिर्घण्टः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ शुभपर्य्याये शुम- मित्यव्ययमप्यस्ति । इति काशिका । ५ । २ । १४० ॥)
शुभः, पुं, (शोभते इति । शुभ + कः ।)
विष्कु- म्भादिसप्तविंशतियोगान्तर्गतत्रयोविंशयोगः । तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “शुभप्रसूतः शुभकृन्नराणां शुभोदयेष्टो विदुषां समाजे । करोति नित्यं शुभकर्म्म धीमान् शोभाधिकः शोभनवेशधारी ॥”
शब्दकल्पद्रुमः
शुभः || त्रि (शुभमस्यास्तीति । अर्शआद्यच् ।)
क्षेमशाली । (यथा, मनुः । ८ । २९७ । “पञ्चाशत्तु भवेद्दण्डः शुभेषु मगपक्षिषु ॥”)
खसञ्चारिपुरम् । इति मेदिनी । भे, ८ ॥
शब्दकल्पद्रुमः
शुभ || प श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः । (तुदा०-पर०-अक०-हिंसने सक०-सेट् । प श, शुम्भति शुशोभ । प्राञ्चस्तु ह्वादौ च शुभ शुन्भ भासनहिंसनयोरिति पठन्ति । इति दुर्गादासः ॥