संस्कृत-शब्दकोशः

शुभान्वित शुभ्रकर

शुभ्र

वाचस्पत्यम्

शुभ्र ||‍ न० शुभ—रक् । १ अभ्रके मेदि० २ रौप्ये ३ कासीसे ४ शु- भ्रलवणे राजनि० । ६ चन्दने शब्दच० । ६ श्वेतवर्णे पु० ७ तद्वति त्रि० अमरः ।


शब्दकल्पद्रुमः

शुभ्रं || क्ली (शोभते इति । शुभ दीप्तौ + “स्फायि तञ्चिवञ्चीति ।” उणा ० २ । १३ । इति रक् ।)
अभ्रकम् । इति मेदिनी ॥ गडलवणम् । रौप्यम् कासीसम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

शुभ्रः || त्रि (शुभ + रक् ।)
उद्दीप्तः । शुक्लगुण- युक्तः । इत्यमरः ॥ (यथा, रघुः । २ । ६९ । “पपौ वशिष्ठे न कृताभ्यनुज्ञः शुभ्रं यशो मूर्त्तमिवातितृष्णः ॥”)


शब्दकल्पद्रुमः

शुभ्रः || पुं, (भ दीप्तौ + रक् ।)
शुक्लवर्णः । इत्य- मरः ॥ चन्दनम् । इति शब्दचन्द्रिका ॥



Correction: