मणीवक
मण्ठ
मण्
मण शब्दे
गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- मणति
अर्थ−
१. अस्पष्ट शब्द गर्नु, भन्नु ।
कृदन्तरूपमाला
- 1“मण शब्दार्थः” 2 माणकः-णिका, माणकः-णिका, मिमणिषकः-षिका, मम्मणकः-मंमणकः- णिका;
- इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 3 ज्ञेयानि।
- ‘रण मण क्वणां गतौ मित्त्वं स्मर्यते।’ इति क्षीरस्वाम्याह।
- क्षीरस्वामिनं विना अन्ये सर्वेऽपि धटादिषु न पठन्ति।
- प्रकरणान्तरे अर्थान्तरे च पठितानां धातूनामर्थविशेषे धटादिषु पाठस्य सर्वैर्यथाप्रमाणमभ्युपगमात्, अस्यापि घटादिपाठः स्यान्नाम।
- घटादिपाठपक्षे णौ ‘मितां ह्रस्वः’ 4 इति मित्त्वेन उपधाया ह्रस्वः।
- तेन मणकः-णिका, मणयिता-त्री, मणम् २- माणम् २, मणयित्वा २, इत्यादीनि रूपाणि ण्यन्ते यथायथमूह्यानि।
- 5 मणितम्, 6 7 मणिः, 8 मणिकम्, मणिकः इत्यादीनि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः