संस्कृत-शब्दकोशः

शुश्रू शुश्रूषा

शुश्रूषण

वाचस्पत्यम्

शुश्रूषण ||‍ न० श्रु—सन्—ल्युट् । सेवायां शब्दच० । युच् । तत्रैव स्त्री २ श्रवणेच्छायाञ्च ।


शब्दकल्पद्रुमः

शुश्रूषणं || क्ली (श्रु + सन् + ल्यूट् ।)
सेवा यथा, “शुश्रूषणोपासनञ्च सेवोपास्तिरुपासना ।” इति शब्दरत्नावली ॥ (यथा, भागवते । १० । ७८ । ३९ । “तं पापं जहि दासार्ह तन्नःशुश्रूषणं परम् ॥”



Correction: