शब्दकल्पद्रुमः
शुष्कमत्स्यः || पुं, शुष्को मत्स्यः ।) आतपादिना निस्नेहीकृतमीनः । शुक्टी माछ इति भाषा ॥ तस्य गुणा मत्स्यशब्दे द्रष्टव्याः ॥