वाचस्पत्यम्
शुष्कमांस || न० कर्म० । आतषादिना शुष्कमांसे तद्गुणा भावप्र० उक्ता यथा “त्रिदोषकृत् व्यालजुष्टं शुष्कं शूल- करं गुरु” मांसमित्यनुषङ्गः ।
शब्दकल्पद्रुमः
शुष्कमांसं || क्ली (शुष्कं मांसम् ।)
आतपादिना निस्नेहीकृतमांसम् । तत्पर्य्यायः । उत्तप्तम् २ वल्लरम् ३ । इत्यमरः ॥ वल्लूरा ४ शुष्कनी ५ । इति तट्टीका ॥ अस्य गुणाः । “वृद्धानां दोषलं मांसं बालानां बलदं लघु । त्रिदोषकृद्व्यालजुष्टं शुष्कं शूलकरं गुरु ॥” इति भावप्रकाशः ॥