संस्कृत-शब्दकोशः

शूकपिण्डी शूकरकन्द

शूकर

वाचस्पत्यम्

शूकर ||‍ पुंस्त्री० शू इत्यव्यक्तं शब्दं करोति कृ—अच् शूक + अस्त्यर्थे र वा । स्वनामख्याते पशौ अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शूकरः || पुं, (शूकं तद्वल्लोम रातीति । रा + कः ।)
पशुविशेषः । शुओर इति भाषा । तत्पर्य्यायः । वराहः २ स्तब्धरोमा ३ रोमशः ४ किरिः ५ चक्रदंष्ट्रः ६ किटिः ७ दंष्ट्री ८ क्रोडः ९ दन्ता- युधः १० बली ११ पृथुस्कन्धः १२ पोत्री १३ घोणी १४ भेदनः १५ कोलः १६ पोत्रायुधः १७ शूरः १८ बह्वपत्यः १९ रदायुधः २० । वन्यस्य तस्य मांसगुणाः । गुरुत्वम् । वातहारित्वम् । वृष्यत्वम् । बलस्वेदकरत्वञ्च ॥ ग्राम्यस्य तस्य मांसगुणाः । वन्यवराहमांसादगुरुत्वम् । मेदो- बलवीर्य्यवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “लुलापगण्डवाराहचमरीवारणादयः । एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥ कूलेचरा मरुत्पित्तहरा वृष्यबलापहाः । मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्म- वर्द्धनाः ॥” इति भावप्रकाशः ॥



Correction: