वाचस्पत्यम्
शूकरकन्द || पु० शूकर इव रामशः कन्दोऽस्य । वाराही- कन्दे राजनि० ।
शब्दकल्पद्रुमः
शूकरकन्दः || पुं, (शूकरप्रियः कन्दः ।) वाराही- कन्दः । इति राजनिर्घण्टः ॥