वाचस्पत्यम्
शूद्र || पुंस्त्री० शुच—रक् पृषो० चस्य दः दीर्घश्च । १ चतुर्थे वर्णे स्त्रियां टाप् । शूद्रा शूद्रजातिस्त्रियाम् । पुंयोगे ङीष् । शूद्री शूद्रभार्य्यायाम् । शुचा द्रवति द्रु० ड पृषो० । २ शो- कहेतुकगतियुक्ते शूद्राधिकरणशब्दे दृश्यम् । अथ शूद्रधर्मादि “विप्राणामर्चनं नित्यं शूद्रधर्मो विधो- यते । तद्द्वेषो तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् । नृध्रः कोटिसहस्राणि शतजन्मानि शूकरः । श्वापदः शतजन्मानि शूद्रो विप्रधनापहा । यः शूद्रो ब्राह्मणी- गामो मातृगामी स पातकी । कुम्भीपाके पच्यते स यावद्वै ब्रह्मणः शतम् । कुम्भीपाके तप्ततैके दष्टः सर्पैर- हर्निशम् । शब्दञ्च विकृताकारं कुरुते यमताडनात् । ततश्चाण्डालयोनिः स्यात् सप्तजन्मसु पातकी । सप्त- जन्मसु सर्पश्च जलौकाः सप्तजन्मसु । जन्मकोटिसहस्रञ्च विष्ठायां जायते कृमिः । योनिक्रिमिः पुंश्चलीनां स भवेत् सप्तजन्मसु । गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु । योनौ यौनौ भ्रमत्येवं न पुनर्जायते नरः” ब्रह्मवै० पु० ८३ अ० । “द्विजानां पादशुश्रूषा शूद्रैः कार्य्या सदा त्विह । पादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम् । ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः । शुश्रू- षार्थ मया यूयं तुरीये तु पदे कृताः । द्विजानां क्षात्त्र- वर्गाणां वैश्यानाञ्च भवद्विधाः । त्रिभ्यः शुश्रूषणा कार्य्या इत्यवादीद्वचस्तदा” पाद्मे सृ० स्व० १६ अ० । “शुश्रूषैव द्वि- जातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाऽऽजीवः पाकयज्ञोऽपि धर्मतः” गारुडे ४९ अ० । “तथा मद्यस्य पानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चा० ण्डालतां व्रजेत्” इति शूद्रकमलाकरधृतपराशरवाक्यम् । ब्राह्मणस्य तदन्नभोजननिषेधो यथा “शूद्रान्नं ब्राह्मणो- ऽश्नन् वै मामं भासार्द्धमेव वा । तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः । अथोदरस्थशूद्राम्नो मृतः श्वा चैव जायते । द्धादश दश चाष्टौ च गृध्रशूकरपुष्कराः । उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः । जुह्वन् वापि जपन् वापि गतिमूर्द्ध्वां न विन्दति । अमृतं ब्रा- ह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यस्य चान्नमे- वान्नं शूद्रान्नं रुधिरं स्मृतम् । तस्मात् शूद्रं न भिक्षेयु- र्यज्ञार्थं सद्द्विजातयः । श्मशानमिव यच्छूद्रस्तस्मात्तं परिवर्जयेत् । कणानामथ वा भिक्षां कुर्य्याच्चातिविक- र्षितः । सच्छूद्राणां गृहे कुर्वन् तत्पापेन न लिप्यते । विशुद्धान्वयसंजातो निवृत्तो सद्यमांसतः । द्विजभक्तो बणिग्वृत्तिः शूद्रः सन् परिकीर्त्तितः” वृहत्पराशरः । शूद्रकृत्यविचारणतत्त्वे मत्स्यपुराणम् “एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धन्तु सर्वदा । नभरशा रेण गन्त्रेण कुर्य्यादामान्नवद्बुधः । दानप्रधामः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्वकामाप्तिरस्क संजायते यतः” । ततो दानमेवापेक्षित न तु मोजन- मपि । सामान्यं सर्वजनकर्त्तव्यत्वेन प्रतिमासकृष्णपक्षा- दिविहितश्राद्धम् आभ्युदयिकश्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुर्य्यादित्यन्वयः । नमस्कारेण मन्त्रेण न तु पठितमन्त्रेण । आमान्नवदित्यनेन जलसेकसिद्धान्नव्यावृत्तिः “स्मिन्नमन्नमुदाहृतम्” इति वशिष्ठेन स्यिन्नस्यैवाद्भत्वस्या- भिधानात् कन्दुपक्वस्य भ्रष्टत्वं न तु स्विन्नत्वं हारीतेन स्वेदनभर्जनयोः पृथक्त्वमुक्तं यथा “आदीपनताषनस्वे- दनभर्जनपचनादिभिः पञ्चमीति” । अस्यार्थः आदीपनं काष्ठानां, तापनं तोयादेः, स्वेदनं धान्यादेर्भर्जनं यवादेः, पचनं तण्डुलादेः इति पञ्चमी सूना इति कल्पतरुः । अतएव स्विन्नधान्येन व्यवह्रियते । “कन्दुपक्वानि तैलेन पायसं दधिसक्तवः । द्विजैरेतानि भोज्यानि शूदूगेह- कृतान्यपि” इति कूर्मपुराणवचने शूद्रकर्तृक कन्दुपक्वा- देर्ब्राह्मणभक्ष्यत्वेन श्राद्धे देयत्वमुक्तम् । कन्दुपक्वं ज- लोपसेकं विना केवलपात्रेण यद्वह्निना पक्वम् । पायसं पाकेन काठिन्यविकारापन्नं दुग्धं परमान्नपरत्वे पुंलि- ङ्गनिर्देशापत्तेः तथा चामरः “परमान्नन्तु पायसः” इति । “दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्घिजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः” इति श्राद्धचिन्ताभणिधृतवराहपुराणवचनमपि कन्दुपक्वपरम् एवन्तु एतद्वचनं सच्छूद्रपरं मैथिलोक्तं हेयम् । एवम् आममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धे- यम् । तत्र द्गव्यदेवताप्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्याः “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । अम- न्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति वराहपुरा- णात् अयं श्राद्धेतिकर्त्तव्यताकोविधिः शद्रकर्तृकमन्त्र- पाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्धौ यदमन्त्र- स्येति पुनर्वचनं तत्स्त्रियाग्रहणार्थं परिभाषार्थञ्च ततश्च तत्कर्मसम्बन्धिमन्त्रेण विप्रस्तदीयकर्मकारयितृब्राह्मणो गृह्यते तेन ब्रह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यं तत्र यजुर्वेदिको मन्त्रः तथा च स्मृतिः “आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । तस्माच्छूद्रः स्वयं कर्म यजु- र्वेदीव कारयेत्” । आर्षक्रमेण श्रुत्युक्तक्रमेण यजुर्वेदि- सम्बन्धिगृह्यादिना “चतुर्णामपि वर्णानां यानि प्रो- क्तानि वेधसा । धभशास्त्राणि राजेन्द्र! शृणु तानि गप्रोत्तम! । विशेषतस्तु शूद्राणां पावनामि मनीपिभिः । अष्टादश पुराणानि चरितं राघवस्य च । रामस्य कुरु- शार्दूल धर्मकामार्थसिद्धये । तथोक्तं भारतं बीर! पारा- शर्य्येण धीमता । वेदार्थं सकलं योज्य धर्मशास्त्राणि च प्रभो!” इति भविष्यपुराणवचनात्तेषां पौराणिकादि- बिधिः । योज्य योजयित्वा । अत्र च “श्राद्धं वेदमन्त्रवर्जं शूद्रस्य इति वचने वेदेत्युपादानात् श्राद्धे पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तं तन्न वराहपुराणे शूद्राणां मन्त्रवर्जित इत्यनेन मन्त्रमात्रनिषेधात् मत्स्यपुराणे नम- स्कारेण मन्त्रेण इत्युपादानाच्च पौराणिकस्यापि श्राद्धे निषेषः प्रतीयते । एवं स्नानेऽपि “ब्रह्मक्षत्रविशामेव मन्त्रवत् स्नानमिष्यते । तूष्णामेव हि शूद्रस्य सनमस्का- रकं मतम्” इत्थनेन नमस्कारविधानात् पञ्चयज्ञेऽपि । “शूद्रस्य द्विजशुश्रूपा तया जीवनवान् भवेत् । शिल्पैवां विविधैर्जीवेत् द्विजातिहितमाचरन् । भार्य्यारतिः शुचि- र्भृत्यभर्त्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” इति नमस्कारमात्रविधानात् श्राद्धा- दिषु पौराणिकमन्त्रनिषेधः । ततश्च स्नानश्राद्धतर्पण पञ्चयज्ञेतरत्र शूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते । अत्र “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति मनुवचनात् “चूडा कार्य्या यथाकुलम्” इति याज्ञवल्क्य- वचनाच्च संस्कारमात्रे कुलधर्मानुरोधेन कालान्तरस्य नामविशेषोच्चारणस्याभिधानाच्च शूद्रादीनां नामकरणे वसुघोषादिकपद्धतियुक्तनामकरणस्य च प्रतीतेर्वैदिकक- र्मणि शूद्राणां पद्धतियुक्तानामाभिधानं क्रियते इति” । शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत्क्षिपेत् न पिबेत् तथा च याज्ञवल्क्यः “हृत्कण्ठतालुगाद्भिस्तु यथा- संख्यं द्विजातयः । शुन्धरन् स्त्री च शूद्रश्च सकृत् स्पृ- ष्टाभिरन्ततः” । अन्ततो हृदयादिसमीपेन ओष्ठेन उत्त- रात्तरमपकर्षात् अतएव स्पृष्टाभिरित्युक्तं न तु भक्षि- ताभिरिति “स्त्रीशूद्रः शुध्यते नित्यं क्षालनाच्च करो- थयोः” इति ब्रह्मपुराणवचनाच्च । याज्ञवल्क्यः “प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्” अत्र द्विजस्यै- वाचमने ब्राह्मतीर्थोपादानात् स्त्रीशूद्रयोर्न तेनाचमनम् एवमेव मिताक्षरायां व्यक्तमुक्तं मरीचिना “स्त्रियास्त्रै- दशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्धि- रेतयोरेव चोभयोः” इति । एतदनन्तरम् इन्द्रियादि- स्पशनन्तु ब्राह्मणवदेव प्रमाणान्तरन्तु वाजसनेयिसामग- श्राद्धाह्निकतत्त्वर्योरनुसन्धेयम्” आ० त० रघु० ।
शब्दकल्पद्रुमः
शूद्रः || पुं, (शोचतीति । शुच शोके + “शुचेर्दश्च ।” उणा० २ । १९ । इति रक् दश्चान्तादेशो धातो- र्दीर्घश्च ।)
चतुर्व्वर्णान्तर्गतचतुर्थवर्णः । तत्- पर्य्यायः । अवरवर्णः २ वृषलः ३ जघन्यजः ४ । इत्यमरः ॥ दासः ५ पादजः ६ अन्त्यजन्मा ७ जघन्यः ८ द्विजसेवकः ९ । इति शब्दरत्नावली ॥ पद्यः १० । इति जटाधरः ॥ अन्त्यवर्णः ११ पज्जः १२ । इति हेमचन्द्रः ॥ चतुर्थः १३ द्विज- दामः १४ उपासकः १५ । इति राजनिर्घण्टः ॥ प्लक्षद्वीपे तस्य संज्ञा मत्याङ्गः । शाल्मलद्वीपे इषुन्धरः । कुशद्वीपे कुलकः । क्रौञ्चद्वीपे सेवकः । शाकद्वीपे अनव्रतः । पुष्करद्वोपे सर्व्वे एकवर्णाः । अस्योत्पत्तिर्ब्रह्मणः पादात् । अस्य शास्त्रनिरूपितो धर्म्मः जीविका च ब्राह्मण- क्षत्त्रियवैस्यशुश्रूषा । अस्यैकाश्रमो गार्हस्थ्यः । इति श्रीभागवतम् ॥ * ॥
अथ शूद्रधर्म्मादि । “विप्राणामर्च्चनं नित्यं शूद्रधर्म्मो विधीयते । तद्द्वेषी तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत् ॥ गृध्रः कोटिसहस्राणि शतजन्मानि शूकरः । श्वापदः शतजन्मानि शूद्रो विप्रधनापहा ॥ यः शूद्रो ब्राह्मणीगामी मातृगामी स पातकी । कुम्भीपाके पच्यते स यावद्वै ब्रह्मणः शतम् ॥ कुम्भीपाके तप्ततैले भुक्तः सर्पैरहर्निशम् । शब्दञ्च विकृताकारं कुरुते यमताडनात् ॥ तदा चाण्डालयोनिः स्यात् सप्तजन्मसु पातकी सप्तजन्मसु सर्पश्च जलौका सप्तजन्मसु ॥ जन्मकोटिसहस्रञ्च विष्ठायां जायते कृमिः । योनिक्रिमिः पुंश्चलीनां स भवेत् सप्तजन्मसु ॥ गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु । योनौ योनौ भ्रमत्येवं न पुनर्जायते नरः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥ अपि च । “द्विजानां पादशूश्रूषा शूद्रैः कार्य्या सदा त्विह पादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम् ॥ ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः । शूश्रूषार्थं मया यूथं तुरीये तु पदे कृताः ॥ द्विजानां क्षत्त्रवर्गाणां वैश्यानाञ्च भवद्द्विधाः । त्रिभ्यः शूश्रूषणा कार्य्या इत्यवादीद्वचस्तदा ॥” इति पाद्मे सृष्टिखण्डे १६ अध्यायः ॥ किञ्च । “शूश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् । कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥ इति गारुडे ४९ अध्यायः ॥ शूद्रराज्ये वासनिषेधो यथा, —
“धार्म्मिकैर्नावृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥” शूद्राय मतिदाननिषेधो यथा, —
“न शूद्राय मतिं दद्यात् कृशरं पायसं दधि । नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः । न चैवास्मै व्रतं ब्रूयात् न च धर्म्मान् वदेद्वुधः ॥ इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
शूद्राणां वेदाधिकारनिषेधो यथा, —
“त्रयोवर्णा महाभाग यज्ञसामान्यमागिनः । शूद्रा वेदपवित्रेभ्यो ब्राह्मणैस्तु बहिष्कृताः ॥” इति वाराहे संसारचक्रनामाध्यायः ॥ * ॥
कलौ ते धन्याः यथा, “कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति योषितः । यदाह भगवान् साधुर्ध न्याश्चेति पुनः पुनः ॥” इति विष्णुपुराणे ६ । २ । १२ ॥ तस्य मद्यपानादौ दोषो यथा, —
“तथा मद्यस्य पानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ॥” इति शूद्रकमलाकरधृतपराशरवचनम् ॥ ब्राह्मणस्य तदन्नभोजननिषेधो यथा, —
“शूद्रान्नं ब्राह्मणोऽश्नन् वै मासं मासार्द्धमेव वा । तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः ॥ अथोदरस्थशूद्रान्नो मृतः श्वानोऽपि जायते । द्वादश दश चाष्टौ च गृध्रशूकरपुषकराः ॥ उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः । जुह्वन् वापि जपन् वापि गतिमूर्द्ध्वं न विन्दति ॥ अमृतं ब्राह्मणस्यान्नं क्षत्त्रियान्नं पयः स्मृतम् । वैश्यस्य चानमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥ तस्मात् शूद्रं न भिक्षेत यज्ञार्थं सद्द्विजातयः । श्मशानमिव सच्छूद्रस्तस्मात्तं परिवर्ज्जयेत् ॥ कणानामथवा भिक्षां कुर्य्याच्चातिविकर्षितः । सच्छूद्राणां गृहे कुर्व्वन् तत्पापेन न लिप्यते ॥ विशुद्धान्वयसंजातो निवृत्तो मद्यमांसतः । द्विजभक्तो बणिग्वृत्तिः शूद्रः स परिकीत्तितः ॥” इति बृहत्पराशरसंहितायाम् ४ अध्यायः ॥ * ॥
अपि च । हारीतः । “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः । स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥” शूद्रान्नं शूद्रस्वामिकान्नं तद्दत्तमपि भोजन- कालेतद्गृहावस्थितं यत्तदपि शूद्रान्नम् । तदाहाङ्गिराः । “शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥” अपिशब्दात् साक्षात्तद्दत्तघृततण्डुलादि । न तु तद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते पुनरङ्गिराः । “यथा यतस्ततो ह्यापः शूद्धिं यान्ति नदीं गताः । शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥ प्रविष्टं स्वत्वापादकप्रतिग्रहादिनेति शेषः । अतएव पराशरः । “तावद्भवति शूद्रान्नं यावन्न स्पृशति द्विजः । द्विजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥” स्पृशति प्रतिगृह्णातीति कल्पतरुः ॥ तच्च संप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् । ‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ॥” तच्च पात्रान्तरे ग्राह्यमाहाङ्गिराः । “स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥” एतेन स्वगृहमागतस्यव शुद्धत्वं तद्गृहगतस्य शूद्रान्नदोषभागित्वं प्रतीयते । ततश्चैतादृगपि मुमूर्षुणा सर्व्व था शूद्रान्नं न भोक्तव्यम् । इति शुद्धितत्त्वम् ॥ * ॥
कलौ शूद्रविशेषान्नभोजन- निषेधो यथा, —
“शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् । भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥ एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ॥” इति तिथ्यादितत्त्वम् ॥ अपरञ्च । व्यास उवाच । “नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्वा यदि वान्यतः । स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विग- र्हितम् । जीवन्नैव भवेत् शूद्रो मृतः श्वा चाभिजायते ॥ ब्राह्मणक्षत्त्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥” कलीतरत्र शूद्रविशेषान्नभोजनविधिर्यथा, —
“आर्त्तिजः कुलमित्रञ्च गोपालो दासनापितौ एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ कुशीलवः कुम्भकारः क्षेत्रकर्म्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः । पायसं स्निग्धपक्वञ्च यावसञ्चैव शक्तवः । पिण्याकञ्चैव तैलञ्च शूद्रादग्राह्यं द्विजातिभिः ॥ इति कौर्म्मे उपविभागे १६ अध्यायः ॥ अपि च । “कन्दुपक्वानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शद्रगेहकृतान्यपि ॥” * ॥
अन्यच्च । “शूद्रास्तु ये दानपरा भवन्ति व्रतान्विता विप्रपरायणास्तु । अन्नं हि तेषां सततं सुभोज्यं भवेद्विजैर्दृष्टमिदं पुरातनैः ॥ तस्माद्दानं प्रकर्त्तव्यं व्रतस्थेन प्रयत्नतः । सर्व्वपापविनाशाय महत्सुखविवृद्धये ॥” इति वह्निपुराणे वृषदानाध्यायः ॥ * ॥
वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः । वेद- मन्त्रवर्ज्जं शूद्रस्येति छन्दोगाह्रिकाचारचिन्ता मणिधृतस्मृतौ वेदेति विशेषणात् । एवञ्च पुराणमधिकृत्य । “अध्येतव्यं न चान्ये न ब्राह्मणं क्षत्त्रियं विना । श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचन ॥” इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम् ॥ पञ्चयज्ञस्नानश्राद्धेषु पौराणिकमन्त्रोऽपि निषिद्धः शुद्रमधिकृत्य । “नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥” इति याज्ञकल्क्येन ॥ “ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते । तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥” इति योगियाज्ञवल्क्येन ॥ श्राद्धमधिकृत्य । “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः । अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥” इति वराहपुराणेन च ॥ नमस्कारेणेति तूष्णीमिति मन्त्रवर्ज्जितमिति चाभिधानादेतत्परं वैदिकपेरञ्च शूद्राधिकारे गोतमवचनम् । अनुमतोऽस्य नमस्कारो मन्त्र इति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयो- र्नेच्छन्ति । सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् स मृतोऽधो गच्छतीति । इति तिथ्यादितत्त्वम् ॥ * ॥
* ॥
प्रसङ्गादत्र कायस्थोत्- पत्तिर्लिख्यते । पाद्मे सृष्टिखण्डे । “सृष्ट्यादौ सदसत्कर्म्मज्ञप्तये प्राणिनां विधिः । क्षणं ध्याने स्थितस्यास्य सर्व्वकायाद्विनिर्गतः ॥ दिव्यरूपः पुमान् हस्ते मसीपात्रञ्च लेखनीम् । चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः ॥ प्राणिनां सदसत्कर्म्मलेखाय स निरूपितः । ब्रह्मणातीन्द्रीयज्ञानी देव्याग्न्योर्यज्ञभुक् स वै । भोजनाच्च सदा तस्मादाहुतिर्दोयते द्विजैः ॥ ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिरुच्यते । नानागोत्राच्च तद्वंश्याः कायस्था भुवि सन्ति वै ॥” * ॥
प्रकारान्तरम् यथा, स्कान्द रेणुकामाहात्म्य । “एवं हत्वार्ज्जुनं रामः सन्धाय निशितान् शरान् । एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान् ॥ केचिद्गहनमाश्रित्य केचित् पातालमाविशन् । सगर्भा चन्द्रसेनस्य भार्य्या दालभ्याश्रमं ययौ ॥ ततो रामः समायातो दाल्भ्याश्रममनुत्तमम् । पूजितो मुनिना सद्योऽन्वर्थ्यपाद्यासनादिभिः ॥ ददौ मध्याह्नसमये तस्मै भोजनमादरात् । रामस्तु भावयामास हृदिस्थं स्वमनोरथम् । याचयामास रामाच्च कामं दाल्भ्यो महा- मुनिः ॥ ततो द्वौ परमप्रीतौ भोजनं चक्रतुर्मदा । भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति । यत्त्वया प्रार्थितं देव तत्त्वं शंसितुमर्हसि ॥ राम उवाच । तवाश्रमे महाभाग सगर्भा स्त्री समागता । चन्द्रसेनस्य राजर्षेः क्षत्त्रियस्य महात्मनः ॥ तन्मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने । ततो दालभ्यः प्रत्युवाच ददामि तव वाञ्छितम् दाल्भ्य उवाच । स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि । ततो रामोऽब्रवोद्दाल्भ्यं यदर्थमहमागतः ॥ क्षत्त्रियान्तकरश्चाहं तत्त्वं याचितवानसि । प्रार्थितश्च त्वया विप्र कायस्थो गर्भ उत्तमः ॥ तस्मात् कायस्थ इत्याख्या भविष्यन्ति शिशोः शुभाः ॥ पवं रामो महाबाहुर्हित्वान्तर्गर्भमुत्तमम् ॥ निर्जगामाश्रमात्तस्मात् क्षत्त्रियान्तकरः प्रभुः । कायस्थ एप उत्पन्नः क्षत्त्रिण्यां क्षत्त्रियात्ततः ॥ रामाज्ञया स दाल्भ्येन क्षत्त्रधर्म्माद्वहिस्कृतः । कायस्थधर्म्मोऽस्मै दत्तश्चित्रगुप्तस्य यः स्मृतः ॥ तहोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन् । दाल्भ्योपदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः ॥ सदाचारपरा नित्यं रता हरिहरार्च्चने । देवविप्रपितॄणाञ्च अतिथीनाञ्च पूजकाः ॥” * ॥
प्रकारान्तरम् । “माहिष्यवनितासूनुर्वैदेहात् यः प्रसूयते । स कायस्थ इति प्रोक्तस्तस्य धर्म्मो विधीयते ॥ क्षत्त्राद्वैश्यायां माहिष्या वैश्याद्विप्राजो वैदेहः । लिपीनां देशजातानां लेखनं स समाचरेत् ॥ गणकत्वं विचित्रञ्च बीजपाटी प्रभेदतः । अधमः शूद्रजातिभ्यः पञ्चसंस्कारवानसौ ॥ चातुर्वर्णस्य सेवां हि लिपिलेखनसाधनाम् । व्यवसायः शिल्पकर्म्म तज्जीवनमुदाहृतम् ॥ शिखां यज्ञोपवीतञ्च वस्त्रमारक्तमम्भसा । स्पर्शनं देवतानाञ्च कायस्थाद्यो विवर्ज्ज येत् ॥” इति कमलाकरभट्टकृतशूद्रधर्म्मतत्त्वम् ॥