शब्दकल्पद्रुमः
शूद्री || स्त्री (शूद्रस्य स्त्री । “पुंयोगादाख्यायाम् ।” ४ । १ । ४८ । इति ङीष ।)
शूद्रस्ये भार्य्या । इत्यमरः ॥ (यथा, याज्ञवल्क्य । १ । ९१ । “विप्रात् मूर्द्धाभिषिक्तो हि क्षत्त्रियाण्यां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥”)