संस्कृत-शब्दकोशः

शूद्री शूनवत्

शून

शब्दकल्पद्रुमः

शूनः || त्रि (टु ओ श्वि गतिवृद्व्योः + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः । “वचिस्वपियजादीनां किति । ६ । १ । १५ । इति संप्रसारणम् ।)
हलः । ६ । ४ । २ । इति दीर्घः । “श्वीदितो निष्ठायाम् ।” ७ । २ । १४ । इति इडागमश्च न ।)
वर्द्धितः । इति व्याकर- णम् ॥ (यथा, सुश्रुते । ५ । २ । “दुर्व्वर्णे हरिते शूने जायते चास्य लोचने ॥” शून्ये, त्रि । यथा ऋग्वेदे । ७ । १ । ११ । मा शूने अग्ने निषदाम नृणाम् ॥” “हे अग्ने ! शूने शून्ये पुत्त्रादिरहिते गृहे मा निषदाम न निवसाम ।” इति तद्भाष्ये सायणः)



Correction: