संस्कृत-शब्दकोशः

शूय शूरण

शूर

वाचस्पत्यम्

शूर ||‍ पु० शूर—अच् । १ वीरे विक्रमवति अमरः । २ वसुदेव- नामके यादवे मेदि० । ३ सूर्य्ये त्रिका० ४ अर्कवृक्षे ५ सिंहे ६ शूकरे पुंस्त्री० स्त्रियां ङीष् । ७ चित्रकवृक्षे ८ साले ९ निकुचे १० मसूरे च पु० राजनि० ।


वाचस्पत्यम्

शूर ||‍ विक्रमे अद० चु० उभ० सक० सेट् । शूरयति ते अशुशूरत् त ।


वाचस्पत्यम्

शूर ||‍ हिंसे स्तम्भे च दि० आ० सक० सेट् । शूर्य्यते अशूरिष्ट । ईदित् शूर्णः


शब्दकल्पद्रुमः

शूर || ङ य ई स्तन्भे । हिंसे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-स्तम्भे अक०-हिंसे सक०-सेट् । निष्ठायामनिट् ।)
ङ य, शूर्य्यते । ई, शूर्णः । स्तम्भो जडीभावः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शूर || त् क ङ विक्रमें । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-आत्म०-अक०-सेट् ।)
ङ, अशु- शूरत् । विक्रमः उद्यमः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शूरः || पुं, (शूरयति विक्रामतीति । शूर + अच् । यद्वा, शवति वीर्य्यं प्राप्नोतीति । शू + “शूसिचि- मिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घश्च ।)
वोरः । इत्यमरः ॥ (यथा, महा- भारते । १ । १०९ । ४ “शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥”)
यादवः । स तु श्रीकृष्णस्व पितामहः । इति मेदिनी ॥ (यथा, भागवते । ९ । २४ । २६ । “शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ॥” सूर्य्यः । इति त्रिकाण्डशेषः ॥ सिंहः । शूकरः ॥ चित्रकः । सालः । लकुचः । मसूरः । इति राजनिर्घण्टः



Correction: