वाचस्पत्यम्
शूलिन् || पु० शूलं तदाकार फलमस्त्यस्य इनन् । भाण्डीरवृक्षे शब्दच० ।
वाचस्पत्यम्
शूलिन् || पु० शूलमस्त्यस्य इनि । १ शूलरोगयुक्ते २ शूलास्त्र धारके त्रि० ३ शिवे पु० ४ शशके भावप्र० ।
शब्दकल्पद्रुमः
शूली || [न्] पुं, शूलमस्यास्तीति । शूल + इनिः । शिवः इत्यमरः ॥ (यथा, महाभारते । ३ । ८४ । ८४ । “ततो गृध्रवटं गच्छेत् स्वानं देवस्य शूलिनः ॥” शशः । इति भावप्रकाशः ॥ शूलास्त्रधारके शूलरोगयुक्तेच त्रि । यथा, —
“बर्जयेद्विदलं शूली कुष्ठी मांसं क्षयी स्त्रियम् । इति वैद्यकम् ॥ तस्य कारणं प्रायश्चित्तञ्च यथा, —
“शूली परोपतापेन जायते तत्प्रमार्ज्जकः । सोऽन्नदानं प्रकुर्व्वीत तथा रुद्रं जपेन्नरः ॥” इति शातातपीयकर्म्मविपाकः ॥