शब्दकल्पद्रुमः
शूलिनी || स्त्री (शूलं अस्या अस्तीति । शूल + इनि । ङीप् ।) दुर्गा । यथा, — “खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शङ्खिनी चापिनी बाणभुषुण्डीपरिघायुधा ॥” इति देवीमाहात्म्यम् ॥