वाचस्पत्यम्
शृ(सृ)गाल || पुंस्त्री० असृजं लाति ला—क पृषो० । (शेयाल) १ पशौ अमरः स्त्रियां ङीष् । २ दैत्यभेदे मेदि० । ३ वासु- देवे ४ निष्ठुरे ५ खले च पु० सारस्वताभिधानम् । पृषो० । शृकाल तत्रार्थे शब्दच० । ६ भीरौ अमरार्थकोषः । शृगालशब्दशाकुनं शिवारुतशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
शृगालः || पुं, (सृजति मायामिति । सृज + कालन् पृषोदरादित्वात् साधुः ।)
पशुविशेषः । शेयाल् इति भाषा । तत्पर्य्यायः । शिवा २ भूरिमायः ३ गोमायुः ४ मृगधूर्त्तकः ५ वञ्चकः ६ क्रोष्टुः ७ फेरुः ८ फेरवः ९ जम्बुकः १० । इत्यमरः ॥ सृगालः ११ जम्बूकः १२ मूत्रमत्तः १३ कुरवः १४ घोरबासनः १५ वनश्वा १६ फेरः १७ श्वधूर्त्तः १८ । इति शब्दरत्नावली ॥ शालावृकः १९ गोमी २० कटस्वादकः २१ । इति जटाधरः ॥ शिवालुः २२ फेरण्डः २३ व्याघ्रनायकः २४ । इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी ॥ वासुदेवः । निष्ठुरः । खलः । इति सारस्वता- भिधानम् ॥ भीरुः । इत्यनेकार्थकोषः ॥ * ॥
शृगालशब्दादीनां शुभाशुभसूचकत्वं यथा, —
“अनर्थहेतुर्गतिशब्दहीनः सदा शृगालः खलु दृष्टमात्रः । शस्ता हि वामा गतिरस्य शस्तो वामो निनादो निशि यो बहूनाम् ॥ हुवा हुवेति प्रथमं ततस्तु टटेति दीघः सुतरां रवो यः । स्याज्जम्बुकानां स नतः प्रशस्त- स्तदन्यरूपः कथितः प्रदीप्तः ॥ शृगालशब्दो भवने निशाया- मुच्चाटनार्थं दिशि पश्चिमायाम् । प्राच्यां भयायोत्तरतः शिवाय भवत्यवाच्यां भयनाशनाय ॥” इति वसन्तराजशाकुनम् ॥