वाचस्पत्यम्
शृङ्खलक || पुंस्त्री० शृङ्खल इव कायति कै—क । १ उष्ट्रे राजनि० स्त्रियां जातित्वात् ङीष् स्वार्थे क । २ शृङ्खलशब्दार्थे ।
शब्दकल्पद्रुमः
शृङ्खलकः || पुं, (शृङ्खलं बन्धनमस्य । “शृङ्खलमस्य बन्धनं करभे ।” ५ । २ । ७९ । इति कन् ।)
उष्ट्रः । इति राजनिर्घण्टः ॥ (यथा, माघे । १२ । ७ । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥”)
पलायननिषेधाय पादेषु दारुमयपाशलक्षित- करभः । इत्यमरभरतौ ॥ (स्वार्थे कन् ।)
शृङ्ख- लश्च ॥