संस्कृत-शब्दकोशः

शृगाली शृङ्खलक

शृङ्खल

वाचस्पत्यम्

शृङ्खल ||‍ पु० शृङ्गात् प्राधान्यात् स्खल्यतेऽनेन पृषो० । निगडे २ लौहमये ३ पादबन्धने च हेमच० । ४ कट्याभरणे अमरः ५ पुंस्कटीवस्त्रबन्धने मेदि० । तत्रार्थे स्त्रीत्वमपि टाप् ।


शब्दकल्पद्रुमः

शृङ्खलः || त्रि पुंसां कट्याभरणम् । गोट् इति भाषा ॥ हस्त्यादीनां लौहमयपादबन्धोपकरणम् आँदु इति दाँडुका इति च भाषा । तत्पर्य्यायः । उन्दुकः २ निगडः ३ । इत्यमरः ॥ शृङ्खला ४ । इति तट्टीकायां भरतः ॥ (यथा, रघुः । ५ । ७२ । “शय्यां जहात्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ॥”)
लौहरज्जुः । शिकल वेडि इत्यादि भाषा ॥ बन्धनम् । इति हेमचन्द्रः ॥



Correction: