संस्कृत-शब्दकोशः

शृङ्खली शृङ्गक

शृङ्ग

वाचस्पत्यम्

शृङ्ग ||‍ न० शॄ—गन् पृषो० मुम् ह्रस्वश्च । १ पर्वतोपरिभागे सातौ अमरः । २ प्रभुत्वे ३ चिह्ने ४ जलक्रीडार्थयन्त्रभेदे (पिचकारी) ५ पश्वादीनां विषाणे (शिङा) ६ उत्कर्षे च मेदि० । ७ ऊर्ये ८ तीक्ष्णे ९ पद्मे च शब्दर० १० महिष- शृङ्गनिर्मितवाद्यभेदे (शिङ्ग) ११ कामोद्रेके सा० द० शृङ्गा- रशब्दे दृश्यम् । १२ कूर्चशीर्षकवृक्षे पु० मेदि० १३ मुनि- भेदे पु० ।


शब्दकल्पद्रुमः

शृङ्गं || क्ली (शॄहिंसे + “शृणातेर्ह्रस्वश्च ।” उणा० १ । १२५ । इति गन् । धातोर्ह्रस्वत्वँ कित्त्वं नुट् च प्रत्ययस्य ।)
पर्व्वतोपरिभागः । तत्प- र्य्यायः । कूटम् २ कूटः ३ शिखरम् ४ । इत्य- मरः ॥ दन्तः ५ प्राग्भारः ६ । इति जटाधरः ॥ शैलाग्रम् ७ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । १३ । २६ । एतद्गिरेर्माल्यवतः पुरस्ता- दाविर्भवत्यम्बरलेखि शृङ्गम् ॥”)
सानुः । इति नानार्थे अमरः ॥ प्रभुत्वम् । चिह्नम् । क्रीडाजलयन्त्रम् । (यथा रघुः १६ । ७० । “वर्णोदकैः काञ्चनशृङ्गमुक्तै- स्तमायताक्ष्यः प्रणयादसिञ्चन् ॥”)
विषाणम् । (यथा, रघुः । १६ । १२ । “वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥”)
उत्कर्षः । इति मेदिनी ॥ (यथा, रघुः । ९ । ६२ । “शृङ्गं स दृप्तविनयाधिकृतः परेषा मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥” ऊर्द्ध्वम् । (यथा, कुमारे । ७ । ४० । “विमानशृङ्गाण्यवगाहमानः शशंस देवावसरं सुरेभ्यः ॥”)
तीक्ष्णम् । पङ्कजम् । इति शब्दरत्नावली ॥ (कोटिः । यथा, कुमारे । २ । ६४ । “अथ सललितयोषिद् भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ॥” स्तनम् । यथा, भागवते । ५ । २ । ११ । “किं सम्भृतं रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कृशो वहसि तत्र दृशिः श्रिता मे ॥” “स्तनावालक्ष्याह । शृङ्गयोः स्तनयोः किं सम्भृतं किं पूर्णमस्ति मनोहरं किञ्चिदस्ति इत्ये तावत् जानामि ।” इति तट्टीकायां स्वामी ॥ * ॥
)
महिषादिशृङ्गनिर्म्मितवाद्यविशेषः । शिङ्ग इति भाषा । यथा, —
“क्वचिद्वनाशाय मनो दधद्व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् शृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥” इति श्रीभागवते १० स्कन्धे १२ अध्यायः ॥ कामोद्रेकः । यथा, साहित्यदर्पणे । ३ । २१० । “शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥” * ॥
गोशृङ्गभङ्गप्रायश्चित्तं यथा । भवदेवभट्टधृतं यमवचनम् । “अस्थिभङ्गं गवां कृत्वा लाङ्गुलच्छेदनं तथा । पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥” अङ्गिराः । “शृङ्गभङ्गेऽस्थिभङ्गे च चर्म्मनिर्म्मोचनेऽपि वा । दशरात्रं चरेद्वज्रं सुस्था सा यदि गौर्भवेत् ॥” भवदेवभट्टहरिनाथोपाध्यायधृतं संवर्त्तवचनम् । “शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥” अत्र षण्मासोत्तरमरणे तद्दोषशमनाय प्राय- श्चित्तं नास्ति तदभ्यन्तरमरणे वधप्रायश्चित्तं भवति । एवञ्च शृङ्गभङ्गादिनिमित्तकपापे पृथक् प्रायश्चित्तं न कर्त्तव्यम् । वधप्रायश्चित्तेनैव गुरुणा प्रसङ्गात्तदपगमसिद्धेः । षण्मासोत्तरन्तु शृङ्गभङ्गादिनिमित्तकपूर्व्वोक्तमासार्द्धयावकपानं प्राजापत्यं वा कर्त्तव्यम् । इति प्रायश्चित्ततत्त्वम् ॥


शब्दकल्पद्रुमः

शृङ्गः || पुं, (शॄ + गन् । उणा० १ । १२५ ।)
कूर्च्च- शीर्षकवृक्षः । इति मेदिनी ॥ मुनिभेदः । इति शब्दरत्नावली ॥



Correction: