शब्दकल्पद्रुमः
शृङ्गिणी || स्त्री (शृङ्गे स्तः अस्या इति । शृङ्ग + इनिः । ङीष् ।) गौः । इत्यमरः ॥ श्लेष्मघ्नी- वृक्षः । मल्लिकावृक्षः । ज्योतिष्मतीवृक्षः । इति मेदिनी ॥