संस्कृत-शब्दकोशः

शृङ्गिणी शृङ्गी

शृङ्गिन्

वाचस्पत्यम्

शृङ्गिन् ||‍ पु० शृङ्गपस्त्यस्य इनि । १ मेषे २ कुलाचलमेदे शृङ्गवच्छब्दे दृश्यम् । ३ पर्वतमात्रे ४ मुनिभेदे ५ वृक्षे च । ६ शृङ्गयुक्ते त्रि० मेदि० । ७ धेन्वां स्त्री ङीप् । ८ श्लेष्म- घ्नीवृक्षे ९ मल्लिकायां १० ज्योतिष्मत्यां च स्त्री मेदि० । मुनिभेदश्च शमीकर्षिपुत्रः स हि परिक्षितं प्रति तक्षक- दंशनशापमदात् इति विष्णुपु० स्थितम् ।


शब्दकल्पद्रुमः

शृङ्गी || [न्] पुं, (शृङ्ग + इनिः ।)
हस्ती । वृक्षः । पर्व्वतः । (यथा, रघुः । १२ । ८० । “रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥” ऋषिविशेषः । स तु शमीकपुत्त्रः । अभिमन्यूजः परिक्षित् अनेनाभिशप्तः ।)
शृङ्गयुक्ते, त्रि । इति मेदिनी ॥ यथा, रामायणे । २ । २५ । २० । “महिषाः शृङ्गिणौरौद्रा नते द्रुह्यन्तु पुत्त्रक ॥”)



Correction: