वाचस्पत्यम्
शृङ्गीकनक || न० श्रगि—कि या० सम्प्र० ङीप् शृङ्गी अल- ङ्कारस्तदर्थं कनकम् । भूषणार्थस्वर्णे अमरः ।
शब्दकल्पद्रुमः
शृङ्गीकनकं || क्ली (शृङ्गी मण्डनस्वर्णम् । तदेव कनकम् ।)
अलङ्कारसुवर्णम् । इत्यमरः ॥ अलङ्कारस्य कुण्डलादेर्यत् सुवर्णं तत् शृङ्गी- कनकमुच्यते शृङ्गी अलङ्खारः तदर्थं कनकं- शृङ्गीकनकं अलङ्कारसुवर्णस्य शृङ्गीति च नाम । स्त्री शृङ्गी मण्डनस्वर्णे इति रत्नकोषः ॥ शृङ्गी ह्रस्वान्ता च शृङ्गति कर्णादीन् शृङ्गिः श्रगि श्लगि व्रजे नाम्नीति इः निपातनात् जिः पाच्छो- णादीति ईपि शृङ्गी । इति भरतः ॥