वाचस्पत्यम्
शृ(सृ)णि || स्त्री शॄ—सृ वा क्तिन् तस्य निः पृषो० । अङ्कुशे अमरः ।
शब्दकल्पद्रुमः
शृणिः || स्त्री अङ्कुशः । इत्यमरः ॥ “शृणाति मर्म्म- स्थाणं शृणिः । शॄ स्वॄ गि हिंसने कॄगॄज्याग्ला- हाल्वादेर्निरिति ल्वादित्वात् क्तेर्निः निपा- तनादिह ह्रस्वः । नाम्नीति डृणिर्व्वा । “शृणिरङ्कुशवाची च काशश्च तृणवाचकः ।” इति शभेदात् तालव्यादिः । सरति मर्म्मस्थानं गच्छति सृणिर्द्दन्त्यादिरित्यन्ये । स्त्रियामित्यत्र द्वयोरिति पाठः । इति मेदिनी ॥ आवक्षमग्न- मवमत्य शृणिं शिताग्रमिति माघः । स्त्रिया- मिति प्रायिकत्वादुक्तमिति मुकुटः ।” इति भरतः ॥