वाचस्पत्यम्
शृत || त्रि० शृ—क्त । १ पक्वे अमरः २ क्वथिते जलादौ च “द्रव्यादुत्थापितात्तोयात् वह्निना परितापितात् । गिःसृतो यो रसः पूतः स शृगः समुदःहृतः” वैद्यकोक्ते ३ द्रव्य- क्वाथजे रसे पु० ।
शब्दकल्पद्रुमः
शृतं || त्रि (श्रा पाके + क्तः ।)
“शृतं पाके ।” ६ । १ । २७ । इति शृभावः ।)
पक्वक्षीराज्य- पयांसि । इत्यमरः ॥ शृतमन्नं विवर्ज्जयेदिति- त्वार्षम् । इति भरतः ॥ कथितम् । इति शब्द चन्द्रिका रत्नमाला च ॥ * ॥
अथ क्वाथविधिः । “पानीयं षोडशगुणं क्षुण्ण द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेत् ग्राह्यमष्टमांशावशेषितम् ॥ कर्षादौ तु पलं यावत् दद्यात् षोडशिकं जलम् । तज्जलं पाययेद्धीमान् कोष्णं मृद्वग्निसाधितम् । शृतः काथः कषायश्च निर्य्यूहः स निगद्यते ॥” क्वाथपानमात्रामाह । “मात्रोत्तमा पलेन स्यात्त्रिभिरक्षैस्तु मध्यमा । जघन्या च पलार्ङ्ग्रेन स्नेहक्वाथौषधेन च ॥” तन्त्रान्तरे । “क्वाथद्रव्यपले वारि द्विरष्टगुणमिष्यते । चतुर्भागावशिष्टन्तु पेयं पलचतुष्टयम् ॥ दीप्तानलं महाकायं पाययेत् द्व्यञ्जलिं जलम् । अन्ये त्वर्द्धं परित्यज्य प्रसृतन्तु चिकित्सकाः ॥ क्वाथत्यागमनिच्छन्तस्त्वष्टभागावशेषितम् । पारम्पर्य्योपदेशेन वृद्धवैद्याः पलद्वयम् ॥” अष्टभागावशेषितस्य चतुर्भागावशिष्टापेक्षया गुरुत्वाद्दीप्तानलं महाकायं पलद्वयं पायये- न्मध्यमाग्निमल्पकायं पलमात्रं पाययेत् । मात्रोत्तमा पलेन स्यादित्यादिवचनात् । “क्वाथे क्षिपेत् सितामशैश्चतुर्थाष्टमषोडशैः । वातपित्तकफातङ्के विपरीतं मधु स्मृतम् ॥ जीरकं गुग्गुलुं क्षारं लवणञ्च शिलाजतु । हिङ्गु त्रिकटुकञ्चैव क्वाथे शाणोन्मितं क्षिपेत् ॥ क्षीरं घृतं गुडं तैलं मूत्रं चान्यत द्रवं तथा । कल्कं चूर्णादिकं क्वाथे निक्षिपेत् कर्षसम्मितम् ॥ तत्रोपविश्य विश्रान्तः प्रसन्नवदनेक्षणः । औषधं हेम रजतं मृद्भाजनपरिस्थितम् ॥ पिबेत् प्रमन्नहृदयः पीत्वा पात्रमधोमुखम् । विधायाचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “द्रव्यादापोत्थितात्तोये वह्निना परितापितात् । निःशृतो यो रसः पूतः स शृतः समुदाहृतः ॥” इति वैद्यकम् ॥