संस्कृत-शब्दकोशः

शेव शेवल

शेवधि

वाचस्पत्यम्

शेवधि ||‍ पु० शेः धनादिमोहस्तस्य अवधिः । “पद्मोऽस्त्रियां महापद्मः शङ्खोमकरकच्छपौ । मुकुन्दकुन्दनीलाश्च नि- धयो नव शेवधि” इत्युक्ते नवपिधे निधौ अमरटीका ।


शब्दकल्पद्रुमः

शेवधिः || पुं, (शेवं सुखं धीयतेऽस्मिन्निति । धा + कः ।)
निधिः । इत्यमरः ॥ (यथा, मनुः । २ । ११४ । “विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथास्यां वीर्य्यवत्तमा ॥”



Correction: