वाचस्पत्यम्
शैथिल्य || न० शिथिलस्य भावः ष्यञ् । अदृढे संयोगभेदे ।
शब्दकल्पद्रुमः
शैथिल्यं || क्ली (शिथिल + भावे ष्यञ् ।)
शिथि- लत्वम् । शिथिलस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा, मार्कण्डेये । १०९ । २२ । “भवन्तु केशाः पलिताः वलयः सन्तु मे शुभे । शैथिल्यमेतु मे कायः कृतकृत्योऽस्मि मानिनि ॥”