वाचस्पत्यम्
शैनेय || पु० शिनेर्गोत्रापत्यम् ढक् । सात्यकिनाम्नि यादवे ।
शब्दकल्पद्रुमः
शैनेयः || पुं, (शिनेर्गोत्रापत्यमिति । शिनि + “इत- श्चानिञः ।” ४ । १ । १२२ । इति ढक् ।)
सात्यकिः । स तु श्रीकृष्णसारथिः । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । १ । ८ । ७ । “आमन्त्र्य पाण्डुपुत्त्रांश्च शैनयोद्धवसंयुतः । द्वैपायनादिभिर्व्विप्रैः पूजितैः प्रतिपूजितः ॥”)