संस्कृत-शब्दकोशः

शैलाट शैलालिन्

शैलादि

वाचस्पत्यम्

शैलादि ||‍ पु० शिलादस्यापत्यम् इञ् । शिवपार्श्वचरे नन्दिनि


शब्दकल्पद्रुमः

शैलादिः || पुं, नदी । यथा, —
“निमित्तानीदृशान् दृष्ट्वा भूतभव्यभवो विभुः । शैलादिं प्राह वचनं सस्मितं शशिशेखरः ॥ हर उवाच । नन्दिन् जयोऽद्य भावी नो न कथञ्चित् परा- जयः । निमित्तानीह दृश्यन्ते शुभदानि गणेश्वर ॥ तच्छम्भुवचनं श्रुत्वा शैलादिः प्राह शङ्करम् । कः सन्देहो महादेव यत् त्वं जयसि शात्र- वान् ॥”)
इति वामने ६५ अध्यायः ॥



Correction: