वाचस्पत्यम्
शोण || गतो सक० वर्णे अक० भ्वा० पर० सेट् । शोणति अशीणीत् ऋदित् चङि न ह्रस्वः ।
वाचस्पत्यम्
शोण || न० शोण—अच् । १ सिन्दूरे २ रुधिरे च राजनि० । ३ रक्तेक्षौ ४ शोणाकभेदे राजनि० । ५ मङ्गले ग्रहे ६ अग्नौ ७ चित्रके ८ नदभेदे स च अमरकण्टकदेशगतः पाटलि- पुत्रसन्निकृष्टे गङ्कायां मिलितः । ९ रक्तवर्णे पु० १० त- द्वति त्रि० मेदि० । ११ समुद्रभेदे धरणिः ।
शब्दकल्पद्रुमः
शोण || ऋ गतौ । वर्णे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-वर्णे अक०-सेट् ।)
वर्णश्चेह रक्तीभावः । शोणति सूर्य्यः सन्ध्यायाम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शोणं || क्ली (शोणतीति । शोण वर्णे + पचाद्यच् ।)
सिन्दूरम् । रुधिरम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
शोणः || पुं, (शोण वर्णे + अच् ।)
रक्तोत्पलतुल्य- वर्णः । तत्पर्य्यायः । कोकनदच्छविः २ । इत्य- मरः ॥ रक्तोत्पलनिभः ३ । इति शब्दरत्ना- वली ॥ रक्तोत्पलाभः ४ । इति जटाधरः ॥ (यथा, भागवते । १ । ११ । २ । “स उच्चकाशे धवलोदरोदरो- ऽप्युरुक्रमस्याधरशोणशोणिमा ॥”)
नदविशेषः । तत्पर्य्यायः । हिरण्यवाहुः । इत्यमरः ॥ हिरण्यवाहः ३ । इति भरतः ॥ स तु अमरकण्टकदेशात् पाटलिपुत्त्रे गङ्गायां मिलितः । तज्जलगुणाः । रुचिदत्वम् । सन्ताप- शोषापहत्वम् । पथ्यत्वम् । वह्निकरत्वम् । बलक्षीणाङ्गवृद्धिप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अग्निः । श्योनाकः । लोहिताश्वः । कोकनद- च्छाये, त्रि । इति मेदिनी ॥ समुद्रविशेषः । इति धरणिः ॥ रक्तेक्षुः । श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (रक्तवर्णे, त्रि । यथा, कुमारे । १ । ७ । “न्यस्ताक्षरा धातुरसेन यत्र भूज्जत्वचः कुञ्जरबिन्दुशोणाः ॥”)