वाचस्पत्यम्
शोफ || पु० शु—फन् । शोथे अमरः । शोथशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
शोफः || पुं, (शु गतौ । वाहुलकात् फः ।) शोथः । इत्यमरः ॥ (यथा, सुश्रुते । १ । १४ । “तद्दुष्टं शोणितमनिर्ह्रियमाणः कण्डूशोफ- रागदाहपाकवेदना जनयेत् ॥”)