संस्कृत-शब्दकोशः

शोष शोषसम्भव

शोषण

वाचस्पत्यम्

शोषण ||‍ न० पुष—ल्युट् । १ चोषणेन रसाकर्षणे हेमच० । २ शोषशब्दार्थे च शोषयति शुष—णिचु—ल्यु । उन्मादनः शोषणश्च तापनं स्तम्भनस्तथां । मारणश्चेति विज्ञेयाः कामस्य पञ्च सायकाः” इत्युक्ते ३ स्मरशरभेदे जटा० । ४ शोणाकवृक्षे भावप्र० । ५ शुण्ठ्यां राजनि० ।


शब्दकल्पद्रुमः

शोषणं || क्ली (शुष् + ल्युट् ।)
रसाकषणम् । चोषण इति भाषा । तत्पर्य्यायः । रसादनम् २ । इति हेमचन्द्रः ॥ स्ने हरहितीकरणम् । यथा, —
“शोषणेन शरीरस्य तपसाध्ययनेन च । पापकृन्मुच्यते पापाद्दानेन च दमेन च ॥” इति प्रायश्चित्ततत्त्वम् ॥ शुण्ठी । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

शोषणः || पुं, (शोषयतीति । शुष + णिच् + ल्युः ।)
कामदेवस्य बाणविशेषः । यथा, —
“उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा ।” इति जटाधरः ॥ श्योनाकवृक्षः । इति भावप्रकाशः ॥ (शोषण- कारके, त्रि ॥)



Correction: